श्रीचन्द्राष्टोत्तरशतनामस्तोत्रम्॥ Shri Chandra Ashtottarashatanama Stotram.


श्रीचन्द्राष्टोत्तरशतनामस्तोत्रम्॥

चन्द्र बीज मन्त्र - ॐ श्राँ श्रीं श्रौं सः चन्द्राय नमः ॥

श्रीमान् शशधरश्चन्द्रो ताराधीशो निशाकरः ।
सुधानिधिः सदाराध्यः सत्पतिः साधुपूजितः ॥ १॥

जितेन्द्रियो जगद्योनिः ज्योतिश्चक्रप्रवर्तकः ।
विकर्तनानुजो वीरो विश्वेशो विदुषाम्पतिः ॥ २॥

दोषाकरो दुष्टदूरः पुष्टिमान् शिष्टपालकः ।
अष्टमूर्तिप्रियोऽनन्त कष्टदारुकुठारकः ॥ ३॥

स्वप्रकाशः प्रकाशात्मा द्युचरो देवभोजनः ।
कळाधरः कालहेतुः कामकृत्कामदायकः ॥ ४॥

मृत्युसंहारकोऽमर्त्यो नित्यानुष्ठानदायकः ।
क्षपाकरः क्षीणपापः क्षयवृद्धिसमन्वितः ॥ ५॥

जैवातृकः शुची शुभ्रो जयी जयफलप्रदः ।
सुधामयस्सुरस्वामी भक्तानामिष्टदायकः ॥ ६॥

भुक्तिदो मुक्तिदो भद्रो भक्तदारिद्र्यभञ्जकः । (भञ्जनः)
सामगानप्रियः सर्वरक्षकः सागरोद्भवः ॥ ७॥

भयान्तकृत् भक्तिगम्यो भवबन्धविमोचकः ।
जगत्प्रकाशकिरणो जगदानन्दकारणः ॥ ८॥

निस्सपत्नो निराहारो निर्विकारो निरामयः ।
भूच्छायाऽऽच्छादितो भव्यो भुवनप्रतिपालकः ॥ ९॥

सकलार्तिहरः सौम्यजनकः साधुवन्दितः ।
सर्वागमज्ञः सर्वज्ञो सनकादिमुनिस्तुतः ॥ १०॥

सितच्छत्रध्वजोपेतः सीताङ्गो सीतभूषणः ।
(षीताङ्गो षीतभूषणः)-(पीताङ्गो पीतभूषणः)
श्वेतमाल्याम्बरधरः श्वेतगन्धानुलेपनः ॥ ११॥

दशाश्वरथसंरूढो दण्डपाणिः धनुर्धरः ।
कुन्दपुष्पोज्ज्वलाकारो नयनाब्जसमुद्भवः ॥ १२॥

आत्रेयगोत्रजोऽत्यन्तविनयः प्रियदायकः ।
करुणारससम्पूर्णः कर्कटप्रभुरव्ययः ॥ १३॥

चतुरश्रासनारूढश्चतुरो दिव्यवाहनः ।
विवस्वन्मण्डलाग्नेयवासो वसुसमृद्धिदः ॥ १४॥

महेश्वरःप्रियो दान्त्यो मेरुगोत्रप्रदक्षिणः ।
ग्रहमण्डलमध्यस्थो ग्रसितार्को ग्रहाधिपः ॥ १५॥

द्विजराजो द्युतिलको द्विभुजो द्विजपूजितः ।
औदुम्बरनगावास उदारो रोहिणीपतिः ॥ १६॥

नित्योदयो मुनिस्तुत्यो नित्यानन्दफलप्रदः ।
सकलाह्लादनकरो फलाशसमिधप्रियः ॥ १७॥

एवं नक्षत्रनाथस्य नाम्नामष्टोत्तरं शतम् ।

।। नारायण सभी का नित्य कल्याण करें ।।

www.sansthanam.com
www.dhananjaymaharaj.com
www.sansthanam.blogspot.com
www.dhananjaymaharaj.blogspot.com

।। नमों नारायण ।।
SHARE

About astroclassess.blogspot.com

    Blogger Comment
    Facebook Comment

0 comments:

Post a Comment