चन्द्राष्टाविंशतिनामस्तोत्रम् ॥ Chandra Ashtavimshatinama Stotram.

चन्द्राष्टाविंशतिनामस्तोत्रम् ॥

श्रीगणेशाय नमः ।
अस्य श्रीचन्द्राष्टाविंशतिनामस्तोत्रस्य गौतम ऋषिः,
सोमो देवता, विराट छन्दः, चन्द्रप्रीत्यर्थे जपे विनियोगः ।
चन्द्रस्य श्रृणु नामानि शुभदानि महीपते ।
यानि श्रृत्वा नरो दुःखान्मुच्यते नात्र संशयः ॥ १॥

सुधाकरश्च सोमश्च ग्लौरब्‍जः कुमुदप्रियः ।
लोकप्रियः शुभ्रभानुश्चन्द्रमा रोहिणीपतिः ॥ २॥

शशी हिमकरो राजा द्विजराजो निशाकरः ।
आत्रेय इन्दुः शीतांशुरोषधीषः कलानिधिः ॥ ३॥

जैवातृको रमाभ्राता क्षीरोदार्णवसम्भवः ।
नक्षत्रनायकः शम्भुशिरश्चूडामणिर्विभुः ॥ ४॥

तापहर्ता नभोदीपो नामान्येतानि यः पठेत् ।
प्रत्यहं भक्तिसंयुक्तस्तस्य पीडा विनश्यति ॥ ५॥

तद्दिने च पठेद्यस्तु लभेत्सर्वं समीहितम् ।
ग्रहादीनां च सर्वेषां भवेच्चन्द्रबलं सदा ॥ ६॥

॥ इति श्रीचन्द्राष्टाविंशतिनामस्तोत्रं सम्पूर्णम् ॥

।। नारायण सभी का नित्य कल्याण करें ।।

www.sansthanam.com
www.dhananjaymaharaj.com
www.sansthanam.blogspot.com
www.dhananjaymaharaj.blogspot.com

।। नमों नारायण ।।
SHARE

About astroclassess.blogspot.com

    Blogger Comment
    Facebook Comment

0 comments:

Post a Comment