अथ श्री राहु अष्टोत्तरशतनाम स्तोत्रम् ।। Rahu Ashtottarashata Nama Stotram.

श्रीगणेशाय नमः ।। अथ श्रीराहु अष्टोत्तरशतनाम स्तोत्रम् प्रारम्भः ।।


राहु बीज मन्त्र - ॐ भ्राँ भ्रीं भ्रौं सः राहवे नमः ॥

शृणु नामानि राहोश्च सैंहिकेयो विधुन्तुदः ।
सुरशत्रुस्तमश्चैव प्राणी गार्ग्यायणस्तथा ॥ १॥

सुरागुर्नीलजीमूतसङ्काशश्च चतुर्भुजः ।
खड्गखेटकधारी च वरदायकहस्तकः ॥ २॥

शूलायुधो मेघवर्णः कृष्णध्वजपताकावान् ।
दक्षिणाशामुखरथः तीक्ष्णदंष्ट्रधराय च ॥ ३॥

शूर्पाकारासनस्थश्च गोमेदाभरणप्रियः ।
माषप्रियः कश्यपर्षिनन्दनो भुजगेश्वरः ॥ ४॥

उल्कापातजनिः शूली निधिपः कृष्णसर्पराट् ।
विषज्वलावृतास्योऽर्धशरीरो जाद्यसम्प्रदः ॥ ५॥

रवीन्दुभीकरश्छायास्वरूपी कठिनाङ्गकः ।
द्विषच्चक्रच्छेदकोऽथ करालास्यो भयङ्करः ॥ ६॥

क्रूरकर्मा तमोरूपः श्यामात्मा नीललोहितः ।
किरीटी नीलवसनः शनिसामन्तवर्त्मगः ॥ ७॥

चाण्डालवर्णोऽथाश्व्यर्क्षभवो मेषभवस्तथा ।
शनिवत्फलदः शूरोऽपसव्यगतिरेव च ॥ ८॥

उपरागकरस्सूर्यहिमांषुच्छविहारकः ।
नीलपुष्पविहारश्च ग्रहश्रेष्ठोऽष्टमग्रहः ॥ ९॥

कबन्धमात्रदेहश्च यातुधानकुलोद्भवः ।
गोविन्दवरपात्रं च देवजातिप्रविष्टकः ॥ १०॥

क्रूरो घोरः शनेर्मित्रं शुक्रमित्रमगोचरः ।
मानेगङ्गास्नानदाता स्वगृहेप्रबलाढ्यकः ॥ ११॥

सद्गृहेऽन्यबलधृच्चतुर्थे मातृनाशकः ।
चन्द्रयुक्तेतु चण्डालजन्मसूचक एवतु ॥ १२॥

जन्मसिंहे राज्यदाता महाकायस्तथैव च ।
जन्मकर्ता विधुरिपु मत्तकोज्ञानदश्च सः ॥ १३॥

जन्मकन्याराज्यदाता जन्महानिद एव च ।
नवमे पितृहन्ता च पञ्चमे शोकदायकः ॥ १४॥

द्यूने कळत्रहन्त्रे च सप्तमे कलहप्रदः ।
षष्ठे तु वित्तदाता च चतुर्थे वैरदायकः ॥ १५॥

नवमे पापदाता च दशमे शोकदायकः ।
आदौ यशः प्रदाता च अन्ते वैरप्रदायकः ॥ १६॥

कालात्मा गोचराचारो धने चास्य ककुत्प्रदः ।
पञ्चमे धृषणाशृङ्गदः स्वर्भानुर्बली तथा ॥ १७॥

महासौख्यप्रदायी च चन्द्रवैरी च शाश्वतः ।
सुरशत्रुः पापग्रहः शाम्भवः पूज्यकस्तथा ॥ १८॥

पाठीनपूरणश्चाथ पैठीनसकुलोद्भवः ।
दीर्घः कृष्णोऽषिरसः विष्णुनेत्रारिर्देवदानवौ ॥ १९॥

भक्तरक्षो राहुमूर्तिः सर्वाभीष्टफलप्रदः ।
एतद्राहुग्रहस्योक्तं नाम्नामष्टोत्तरं शतम् ॥ २०॥

श्रद्धया यो जपेन्नित्यं मुच्यते सर्व सङ्कटात् ।
सर्वसम्पत्करस्तस्य राहुरिष्टप्रदायकः ॥ २१॥

॥ इति राहु अष्टोत्तरशतनामस्तोत्रम् सम्पूर्णम् ॥
SHARE

About astroclassess.blogspot.com

    Blogger Comment
    Facebook Comment

0 comments:

Post a Comment