श्रीसूर्याष्टोत्तरशतनामस्तोत्रम् ॥ Sury Ashtottarashatanama stotram



॥ श्रीसूर्याष्टोत्तरशतनामस्तोत्रम् ॥

सूर्योऽर्यमा भगस्त्वष्टा पूषार्कः सविता रविः । 
गभस्तिमानजः कालो मृत्युर्धाता प्रभाकरः ॥ १॥

पृथिव्यापश्च तेजश्च खं वायुश्च परायणम् । 
सोमो बृहस्पतिः शुक्रो बुधोऽङ्गारक एव च ॥ २॥

इन्द्रो विवस्वान्दीप्तांशुः शुचिः शौरिः शनैश्चरः । 
ब्रह्मा विष्णुश्च रुद्रश्च स्कन्दो वैश्रवणो यमः ॥ ३॥

वैद्युतो जाठरश्चाग्निरैन्धनस्तेजसां पतिः । 
धर्मध्वजो वेदकर्ता वेदाङ्गो वेदवाहनः ॥ ४॥

कृतं त्रेता द्वापरश्च कलिः सर्वामराश्रयः । 
कला काष्ठा मुहुर्ताश्च पक्षा मासा ऋतुस्तथा ॥ ५॥

संवत्सरकरोऽश्वत्थः कालचक्रो विभावसुः । 
पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः ॥ ६॥

लोकाध्यक्षः प्रजाध्यक्षो विश्वकर्मा तमोनुदः । 
वरुणः सागरोंऽशुश्च जीमूतो जीवनोऽरिहा ॥ ७॥

भूताश्रयो भूतपतिः सर्वभूतनिषेवितः । 
मणिः सुवर्णो भूतादिः कामदः सर्वतोमुखः ॥ ८॥

जयो विशालो वरदः शीघ्रगः प्राणधारणः । 
धन्वन्तरिर्धूमकेतुरादिदेवोऽदितेः सुतः ॥ ९॥

द्वादशात्मारविन्दाक्षः पिता माता पितामहः । 
स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ॥ १०॥

देहकर्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुखः । 
चराचरात्मा सूक्ष्मात्मा मैत्रेण वपुषान्वितः ॥ ११॥

॥ इति श्रीमहाभारते युधिष्ठिरधौम्यसंवादे
आरण्यकपर्वणि श्री सूर्याष्टोत्तरशतनाम स्तोत्रं सम्पूर्णम् ॥

।। नारायण सभी का नित्य कल्याण करें ।।

www.sansthanam.com
www.dhananjaymaharaj.com
www.sansthanam.blogspot.com
www.dhananjaymaharaj.blogspot.com

।। नमों नारायण ।।
SHARE

About astroclassess.blogspot.com

    Blogger Comment
    Facebook Comment

0 comments:

Post a Comment