अथ राहु जप मन्त्र: ।। Rahu Jap Mantra.

अथ राहु जप मन्त्र: ।।


























अथ राहुमहामन्त्र प्रारम्भः ।।
ॐ अस्य श्रीराहुमहामन्त्रस्य वामदेव ऋषिः । गायत्रीछन्दः ।
राहुर्देवता ।  राहुप्रसादसिद्ध्यर्थे जपे विनियोगः ।
धूम्रवर्णाय अङ्गुष्ठाभ्यां नमः ।
कराळवदनाय तर्जनीभ्यां नमः ।
खण्डवराय मध्यमाभ्यां नमः ।
महाशूराय अनामिकाभ्यां नमः ।
त्रिशूलधराय कनिष्ठिकाभ्यां नमः ।
नीलसिंहासनस्थाय करतलकरपृष्ठाभ्यां नमः ।
धूम्रवर्णाय हृदयाय नमः ।
कराळवदनाय शिरसे स्वाहा ।
खण्डवराय शिखायै वषट् ।
महाशूराय कवचाय हुम् ।
त्रिशूलधराय नेत्रत्रयाय वौषट् ।
नीलसिंहासनस्थाय अस्त्राय फट् ।
भूर्भुवःसुवरोमिति दिग्बन्धः ।।

ध्यानम् ।।
कराळवदनं खड्गचर्मशूलवरान्वितम् ।
नीलसिंहासनं राहुं ध्यायेद्रोगप्रशान्तये ॥

लं पृथिव्यात्मने गन्धं समर्पयामि ।
हं आकाशात्मने पुष्पाणि समर्पयामि ।
यं वाय्वात्मने धूपमाघ्रापयामि ।
रं वह्न्यात्मने दीपं दर्शयामि ।
वं अमृतात्मने अमृतोपहारं निवेदयामि ।
सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥

अथ राहू मूलमन्त्रः ।।
ॐ कया॑न्श्चि॒त्र आभु॑वदू॒ती स॒दावृ॑ध॒स्सखा॑' ।
कया॒ शचि॑ष्ठया वृ॒ता ॥

  (यथाशक्ति जपेत्)
धूम्रवर्णाय हृदयाय नमः ।
कराळवदनाय शिरसे स्वाहा ।
खण्डवराय शिखायै वषट् ।
महाशूराय कवचाय हुम् ।
त्रिशूलधराय नेत्रत्रयाय वौषट् ।
नीलसिंहासनस्थाय अस्त्राय फट् ।
भूर्भुवःसुवरोमिति दिग्विमोकः ।।

अथ ध्यानम् ।।
कराळवदनं खड्गचर्मशूलवरान्वितम् ।
नीलसिंहासनं राहुं ध्यायेद्रोगप्रशान्तये ॥

लं पृथिव्यात्मने गन्धं समर्पयामि ।
हं आकाशात्मने पुष्पाणि समर्पयामि ।
यं वाय्वात्मने धूपमाघ्रापयामि ।
रं वह्न्यात्मने दीपं दर्शयामि ।
वं अमृतात्मने अमृतोपहारं निवेदयामि ।
सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥

   ।। इति राहु महामन्त्रः ।।

=======================
SHARE

About astroclassess.blogspot.com

    Blogger Comment
    Facebook Comment

0 comments:

Post a Comment