अथ केतु जप मन्त्र: ।। Ketu Jap Mantra.

९.केतुः - अथ केतुमहामन्त्रप्रारम्भः ।।


ॐ अस्य श्रीकेतुमहामन्त्रस्य मयच्छन्द ऋषिः ।
गायत्री छन्दः । केतुर्देवता ।
मम श्रीकेतुग्रहप्रसादसिद्ध्यर्थे जपे विनियोगः ।
धूम्रवर्णय अङ्गुष्ठाभ्यां नमः ।
द्विबाहवे तर्जनीभ्यां नमः ।
केतवे मध्यमाभ्यां नमः ।
विकृताननाय अनामिकाभ्यां नमः ।
गृध्रासनाय कनिष्ठिकाभ्यां नमः ।
लम्बकाय करतलकरपृष्ठाभ्यां नमः ।
धूम्रवर्णाय हृदयाय नमः ।
द्विबाहवे शिरसे स्वाहा ।
केतवे शिखायै वषट् ।
विकृताननाय कवचाय हुम् ।
गृध्रासनाय नेत्रत्रयाय वौषट् ।
लम्बकाय अस्त्राय फट् ।
भूर्भुवःसुवरोमिति दिग्बन्धः ।।

ध्यानम् ।।
धूम्रवर्णं द्विबाहुं च केतुं च विकृताननम् ।
गृध्रासनं गतं नित्यं ध्यायेत्सर्वफलाप्तये ॥

लं पृथिव्यात्मने गन्धं समर्पयामि ।
हं आकाशात्मने पुष्पाणि समर्पयामि ।
यं वाय्वात्मने धूपमाघ्रापयामि ।
रं वह्न्यात्मने दीपं दर्शयामि ।
वं अमृतात्मने अमृतोपहारं निवेदयामि ।
सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥

केतु मूलमन्त्रः-
ॐ के॒तुं कृ॒ण्वन्न॑ के॒तवे॒ पेशो॑ मर्या अपे॒शसे॑' ।
स मु॒षद्भि॑रजायथाः ॥

  (यथाशक्ति जपेत्)
धूम्रवर्णाय हृदयाय नमः ।
द्विबाहवे शिरसे स्वाहा ।
केतवे शिखायै वषट् ।
विकृताननाय कवचाय हुम् ।
गृध्रासनाय नेत्रत्रयाय वौषट् ।
लम्बकाय अस्त्राय फट् ।
भूर्भुवःसुवरोमिति दिग्विमोकः ।।

ध्यानम् ।।
धूम्रवर्णं द्विबाहुं च केतुं च विकृताननम् ।
गृध्रासनं गतं नित्यं ध्यायेत्सर्वफलाप्तये ॥

लं पृथिव्यात्मने गन्धं समर्पयामि ।
हं आकाशात्मने पुष्पाणि समर्पयामि ।
यं वाय्वात्मने धूपमाघ्रापयामि ।
रं वह्न्यात्मने दीपं दर्शयामि ।
वं अमृतात्मने अमृतोपहारं निवेदयामि ।
सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥

    ।। इति केतुमहामन्त्रः ।।
SHARE

About astroclassess.blogspot.com

    Blogger Comment
    Facebook Comment

0 comments:

Post a Comment