महाकवि श्रीमयूरप्रणीतम् - श्रीसूर्यशतकम् - मण्डलवर्णनम् ।।
॥ अथ मण्डलवर्णनम् ॥
यज्ज्यायो बीजमह्नामपहततिमिरं चक्षुषामञ्जनं य- (ज्यायो यद्बीजमह्नामपहृत)
द्द्वारं यन्मुक्तिभाजां यदखिलभुवनज्योतिषामेकमोकः ।
यद्वृष्ट्यम्भोनिधानं धरणिरससुधापानपात्रं महद्य-
द्दिश्यादीशस्य भासां तदधीकलमलं मङ्गलं मण्डलं वः ॥७३॥ (देवस्य
भानोः तदधिकममलं मण्डलं मङ्गलं)
वेलावर्धिष्णु सिन्धोः पय इव खमिवार्धोद्गताग्य्रग्रहोडु
स्तोकोद्भिन्नस्वचिह्नप्रसवमिव मधोरास्यमस्यन्मनांसि । (महांसि)
प्रातः पूष्णोऽशुभानि प्रशमयतु शिरःशेखरीभूतमद्रेः
पौरस्त्यस्योद्गभस्तिस्तिमिततमतमःखण्डनं मण्डलं वः ॥ ७४॥
प्रत्युप्तस्तप्तहेमोज्ज्वलरुचिरचलः पद्मरागेण येन
ज्यायः किंजल्कपुञ्जो यदलिकुलशितेरम्बरेन्दीवरस्य ।
कालव्यालस्य चिह्नं महिततममहोमूर्न्धि रत्नं महद्य-
द्दीप्तांशोः प्रातरव्यात्तदविकलजगन्मण्डनं मण्डलं वः ॥ ७५॥
कस्त्राता तारकाणां पतति तनुरवश्यायबिन्दुर्यथेन्दु-
र्विद्राणा दृक्स्मरारेरुरसि मुररिपोः कौस्तुभो नोद्गभस्तिः ।
वह्नेः सापह्नवेव द्युतिरुदयगते यत्र तन्मण्डलं वो
मार्तण्डीयं पुनीताद्दिवि भुवि च तमांसीव मृष्णन्महांसि ॥ ७६॥
यत्प्राच्यां प्राक्चकास्ति प्रभवति च यतः प्राच्यसावुज्जिहाना-
दिद्धं मध्ये यदह्नो भवति ततरुचा येन चोत्पाद्यतेऽहः ।
यत्पर्यायेण लोकानवति च जगतां जीवितं यच्च तद्वो
विश्वानुग्राहि विश्वं सृजदपि च रवेर्मण्डलं मुक्तयेऽस्तु ॥ ७७॥
शुष्यन्त्यूढानुकारा मकरवसतयो मारवीणां स्थलीनां
येनोत्तप्ताः स्फुटन्तस्तडिति तिलतुलां यान्त्यगेन्द्रा युगान्ते । (चटिति)
तच्चण्डांशोरकाण्डत्रिभुवनदहनाशङ्कया धाम कृच्छात् (कृत्स्नं)
संहृत्यालोकमात्रं प्रलघु विदधतः स्तान्मुदे मण्डलं वः ॥ ७८॥ (आहृत्यालोकमात्रं प्रतनु)
उद्यद्द्यूद्यानवाप्यां बहुलतमतमःपङ्कपूरं विदार्य (बहल)
प्रोद्भिन्नं पत्रपार्श्वेष्वविरलमरुणच्छायया विस्फुरन्त्या ।
कल्याणानि क्रियाद्वः कमलमिव महन्मण्डलं चण्डभानो- (चण्डरश्मेः)
रन्वीतं तृप्तिहेतोरसकृदलिकुलाकारिणा राहुणा यत् ॥ ७९॥
चक्षुर्दक्षद्विषो यन्न तु दहति पुरः पूरयत्येव कामं (न दहति नितरां पुनः)
नास्तं जुष्टं मरुद्भिर्यदिह नियमिनां यानपात्रं भवाब्धौ ।
यद्वीतश्रान्ति शश्वद्भ्रमदपि जगतां भ्रान्तिमभ्रान्ति हन्ति
ब्रध्नस्याख्याद्विरुद्धक्रियमथ च हिताधायि तन्मण्डलं वः ॥ ८०॥
॥ इति मण्डलवर्णनम् ॥
==============================================
वास्तु विजिटिंग के लिये तथा अपनी कुण्डली दिखाकर उचित सलाह लेने एवं अपनी कुण्डली बनवाने अथवा किसी विशिष्ट मनोकामना की पूर्ति के लिए संपर्क करें ।।

किसी भी तरह के पूजा-पाठ, विधी-विधान, ग्रह दोष शान्ति आदि के लिए तथा बड़े से बड़े अनुष्ठान हेतु योग्य एवं विद्वान् ब्राह्मण हमारे यहाँ उपलब्ध हैं ।।

संपर्क करें:- बालाजी ज्योतिष केंद्र, गायत्री मंदिर के बाजु में, मेन रोड़, मन्दिर फलिया, आमली, सिलवासा ।।
WhatsAap+ Viber+Tango & Call: +91 - 8690 522 111.
E-Mail :: astroclassess@gmail.com
Website :: www.astroclasses.com
www.astroclassess.blogspot.com
www.facebook.com/astroclassess
।।। नारायण नारायण ।।।

0 comments:
Post a Comment