अथ श्रीनवग्रह स्तोत्रम् ।।
ज्योतिर्मण्डलमध्यगं गदहरं लोकैक-भास्वन्मणिं
मेषोच्चं प्रणतिप्रियं द्विजनुतं छायपतिं वृष्टिदम् ।
कर्मप्रेरकमभ्रगं शनिरिपुं प्रत्यक्षदेवं रविं
ब्रह्मेशान-हरिस्वरूपमनग़्हं सिंहेश-सूर्यं भजे ॥ १॥
चन्द्रं शङ्कर-भूषणं मृगधरं जैवातृकं रञ्जकं
पद्मासोदरमोषधीशममृतं श्रीरोहिणीनायकम् ।
शुभ्राश्वं क्षयवृद्धिशीलमुडुपं सद्बुद्धि-चित्तप्रदं
शर्वाणीप्रियमन्दिरं बुधनुतं तं कर्कटेशं भजे ॥ २॥
भौमं शक्तिधरं त्रिकोणनिलयं रक्ताङ्गमङ्गारकम् ।
भूदं मङ्गलवासरं ग्रहवरं श्रीवैद्यनाथार्चकम् ।
क्रूरं षण्मुखदैवतं मृगगृहोच्चं रक्तधात्वीश्वरं
नित्यं वृश्चिकमेषराशिपतिमर्केन्दुप्रियं भावये ॥ ३॥
सौम्यं सिंहरथं बुधं कुजरिपुं श्रीचन्द्र-तारासुतं
कन्योच्चं मगधोद्भवं सुरनुतं पीताम्बरं राज्यदम् ।
कन्यायुग्म-पतिं कवित्व-फलदं मुद्गप्रियं बुद्धिदं
वन्दे तं गदिनं च पुस्तककरं विद्याप्रदं सर्वदा ॥ ४॥
देवेन्द्र-प्रमुखार्च्यमान-चरणं पद्मासने संस्थितं
सूर्यारिं गजवाहनं सुरगुरुं वाचस्पतिं वज्रिणम् ।
स्वर्णाङ्गं धनुमीनपं कटकगेहोच्चं तनूजप्रदं
वन्दे दैत्यरिपुं च भौमसुहृदं ज्ञानस्वरूपं गुरुम् ॥ ५॥
शुभ्राङ्गं नयशास्त्रकर्तृजयिनं सम्पत्प्रदं भोगदं
मीनोच्चं गरुडस्थितं वृष-तुलानाथं कलत्रप्रदम् ।
केन्द्रे मङ्गलकारिणं शुभगुणं लक्ष्मी-सपर्याप्रियं
दैत्यार्च्यं भृगुनन्दनं कविवरं शुक्रं भजेऽहं सदा ॥ ६॥
आयुर्दायकमाजिनैषधनुतं भीमं तुलोच्चं शनिं
छाया-सूर्यसुतं शरासनकरं दीपप्रियं काश्यपम् ।
मन्दं माष-तिलान्न-भोजनरुचिं नीलांशुकं वामनं
शैवप्रीति-शनैश्चरं शुभकरं गृध्राधिरूढं भजे ॥ ७॥
वन्दे रोगहरं करालवदनं शूर्पासने भासुरं
स्वर्भानुं विषसर्पभीति-शमनं शूलायुधं भीषणम् ।
सूर्येन्दु-ग्रहणोन्मुखं बलमदं दत्याधिराजं तमं
राहुं तं भृगुपुत्रशत्रुमनिशं छायाग्रहं भावये ॥ ८॥
गौरीशप्रियमच्छकाव्यरसिकं धूम्रध्वजं मोक्षदं
केन्द्रे मङ्गलदं कपोतरथिनं दारिद्र्य-विध्वंसकम् ।
चित्राङ्गं नर-पीठगं गदहरं दान्तं कुलुत्थ-प्रियं
केतुं ज्ञानकरं कुलोन्नतिकरं छायाग्रहं भावये ॥ ९॥
सर्वोपास्य-नवग्रहाः! जडजनो जाने न युष्मद्गुणान्
शक्तिं वा महिमानमप्यभिमतां पूजां च दिष्टं मम ।
प्रार्थ्यं किन्नु कियत् कदा बत कथं किं साधु वाऽसाधु किं
जाने नैव यथोचितं दिशत मे सौख्यं यथेष्टं सदा ॥ १०॥
नित्यं नवग्रह-स्तुतिमिमां देवालये वा गृहे
श्रद्धा-भक्ति-समन्वितः पठति चेत् प्राप्नोति नूनं जनः ।
दीर्घं चायुररोगतां शुभमतिं कीर्तिं च सम्पच्चयं
सत्सन्तानमभीष्ट-सौख्यनिवहं सर्व-ग्रहानुग्रहात् ॥ ११॥
॥ इति श्रीनवग्रहस्तोत्रं सम्पूर्णम् ॥

0 comments:
Post a Comment