अथ अङ्गारकः जप मन्त्र: ।। Mangal Jap Mantra.

अथ अङ्गारक महामन्त्र प्रारम्भः ।।


ॐ अस्य श्रीअङ्गारकमहामन्त्रस्य विरूपाक्ष ऋषिः ।
गायत्री छन्दः । अङ्गारको देवता ।
मम श्रीअङ्गारकग्रहप्रसादसिद्ध्यर्थे जपे विनियोगः ।
अङ्गारकाय अङ्गुष्ठाभ्यां नमः ।
धरणीसुताय तर्जनीभ्यां नमः ।
रक्तवाससे मध्यमाभ्यां नमः ।
रक्तलोचनाय अनामिकाभ्यां नमः ।
शक्तिधराय कनिष्ठिकाभ्यां नमः ।
कर्मभावनाय करतलकरपृष्ठाभ्यां नमः ।
अङ्गारकाय हृदयाय नमः ।
धरणीसुताय शिरसे स्वाहा ।
रक्तवाससे शिखायै वषट् ।
रक्तलोचनाय कवचाय हुम् ।
शक्तिधराय नेत्रत्रयाय वौषट् ।
कर्मभावनाय अस्त्राय फट् ।
भूर्भुवःसुवरोमिति दिग्बन्धः ।

अथ ध्यानम्।।
रक्तमाल्याम्बरधरं हेमरूपं चतुर्भुजम् ।
शक्तिरूपं गदापद्मं धारयन्तं कराम्बुजैः ॥

लं पृथिव्यात्मने गन्धं समर्पयामि ।
हं आकाशात्मने पुष्पाणि समर्पयामि ।
यं वाय्वात्मने धूपमाघ्रापयामि ।
रं वह्न्यात्मने दीपं दर्शयामि ।
वं अमृतात्मने अमृतोपहारं निवेदयामि ।
सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥

अथ मूलमन्त्रः ।।
ॐ अ॒ग्निर्मू॒र्धा दि॒वः क॒कुत्पतिः॑ पृथि॒व्या अ॒यम् ।
अ॒पा (गुं) रेता (गुं) सि जिन्वति ॥

  (यथाशक्ति जपेत्)
अङ्गारकाय हृदयाय नमः ।
धरणीसुताय शिरसे स्वाहा ।
रक्तवाससे शिखायै वषट् ।
रक्तलोचनाय कवचाय हुम् ।
शक्तिधराय नेत्रत्रयाय वौषट् ।
कर्मभावनाय अस्त्राय फट् ।
भूर्भुवःसुवरोमिति दिग्विमोकः ।।

अथ ध्यानम् ।।
रक्तमाल्याम्बरधरं हेमरूपं चतुर्भुजम् ।
शक्तिरूपं गदापद्मं धारयन्तं कराम्बुजैः ॥

लं पृथिव्यात्मने गन्धं समर्पयामि ।
हं आकाशात्मने पुष्पाणि समर्पयामि ।
यं वाय्वात्मने धूपमाघ्रापयामि ।
रं वह्न्यात्मने दीपं दर्शयामि ।
वं अमृतात्मने अमृतोपहारं निवेदयामि ।
सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥

    ।। इति अङ्गारकमहामन्त्रः ।।
=======================
SHARE

About astroclassess.blogspot.com

    Blogger Comment
    Facebook Comment

0 comments:

Post a Comment