अथ बृहस्पतिः जप मन्त्र: ।। Guru Jap Mantra.

अथ बृहस्पतिमन्त्र प्रारम्भः ।।


ॐ अस्य श्रीबृहस्पतिमहामन्त्रस्य गृत्स महर्षिः । जगतीछन्दः ।
बृहस्पतिर्देवता । बृहस्पतिप्रसादसिद्ध्यर्थे जपे विनियोगः ।
गुरवे अङ्गुष्ठाभ्यां नमः ।
वाक्पतये तर्जनीभ्यां नमः ।
गीर्वाणवन्दिताय मध्यमाभ्यां नमः ।
वरदाय अनामिकाभ्यां नमः ।
सुराचार्याय कनिष्ठिकाभ्यां नमः ।
कमण्डलुधराय करतलकरपृष्ठाभ्यां नमः ।
गुरवे हृदयाय नमः ।
वाक्पतये शिरसे स्वाहा ।
गीर्वाणवन्दिताय शिखायै वषट् ।
वरदाय कवचाय हुम् ।
सुराचार्याय नेत्रत्रयाय वौषट् ।
कमण्डलुधराय अस्त्राय फट् ।
भूर्भुवःसुवरोमिति दिग्बन्धः ।।

अथ ध्यानम्।।
वराक्षमालिकादण्डकमण्डलुधरं विभुम् ।
पुष्परागाङ्कितं पीतं वरदं भावयेद्गुरुम् ॥

लं पृथिव्यात्मने गन्धं समर्पयामि ।
हं आकाशात्मने पुष्पाणि समर्पयामि ।
यं वाय्वात्मने धूपमाघ्रापयामि ।
रं वह्न्यात्मने दीपं दर्शयामि ।
वं अमृतात्मने अमृतोपहारं निवेदयामि ।
सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥

अथ मूलमन्त्रः।।
ॐ बृह॑स्पते॒ अति॒यद॒र्यो अर्हा॑'द्द्यु॒मद्वि॒भाति॒
              क्रतु॑म॒ज्जने॑षु ।
यद्दी॒दय॒च्छव॑सर्तप्रजात॒ तद॒स्मासु द्रवि॑णं
              धेहि चि॒त्रम् ॥

  (यथाशक्ति जपेत्)
गुरवे हृदयाय नमः ।
वाक्पतये शिरसे स्वाहा ।
गीर्वाणवन्दिताय शिखायै वषट् ।
वरदाय कवचाय हुम् ।
सुराचर्याय नेत्रत्रयाय वौषट् ।
कमण्डलुधराय अस्त्राय फट् ।
भूर्भुवःसुवरोमिति दिग्विमोकः ।।

अथ ध्यानम्।।
वराक्षमालिकादण्डकमण्डलुधरं विभुम् ।
पुष्परागाङ्कितं पीतं वरदं भावयेद्गुरुम् ॥

लं पृथिव्यात्मने गन्धं समर्पयामि ।
हं आकाशात्मने पुष्पाणि समर्पयामि ।
यं वाय्वात्मने धूपमाघ्रापयामि ।
रं वह्न्यात्मने दीपं दर्शयामि ।
वं अमृतात्मने अमृतोपहारं निवेदयामि ।
सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥

   ।। इति बृहस्पतिमन्त्रः ।।
=====================
SHARE

About astroclassess.blogspot.com

    Blogger Comment
    Facebook Comment

0 comments:

Post a Comment