अथ चन्द्रः जप मन्त्र ।। Chandra Jap Mantra.

अथ सोममन्त्र प्रारम्भः ।।


ॐ अस्य श्रीसोममहामन्त्रस्य गौतम ऋषिः । गायत्री छन्दः ।
सोमो देवता । सां बीजम् । सीं शक्तिः । सूं कीलकम् ।
मम श्रीसोमग्रहप्रसादसिद्ध्यर्थे जपे विनियोगः ।
सोमाय अङ्गुष्ठाभ्यां नमः ।
निशाकराय तर्जनीभ्यां स्वाहा ।
क्षीरोदार्णवसम्भवाय मध्यमाभ्यां वषट् ।
लक्ष्मीसहोदराय अनामिकाभ्यां हुम् ।
तारकेशाय कनिष्ठिकाभ्यां वौषट् ।
सुधामूर्तये करतलकरपृष्ठाभां फट् ।
सोमाय हृदयाय नमः ।
निशाकराय शिरसे स्वाहा ।
क्षीरोदार्णवसम्भवाय शिखायै वषट् ।
लक्ष्मीसहोदराय कवचाय हुम् ।
तारकेशाय नेत्रत्रयाय वौषट् ।
सुधामूर्तये अस्त्राय फट् ।
भूर्भुवः सुवरोमिति दिग्बन्धः ।।

अथ ध्यानम्।।
गदाधरधरं देवं श्वेतवर्णं निशाकरम् ।
ध्यायेदमृतसम्भूतं सर्वकामफलप्रदम् ॥

लं पृथिव्यात्मने गन्धं समर्पयामि ।
हं आकाशात्मने पुष्पाणि समर्पयामि ।
यं वाय्वात्मने धूपमाघ्रापयामि ।
रं वह्न्यात्मने दीपं दर्शयामि ।
वं अमृतात्मने अमृतोपहारं निवेदयामि ।
सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥

अथ मूलमन्त्रः ।।
ॐ आप्या॑यस्व॒ समे॑तु ते वि॒श्वतः॑ सोम॒ वृष्णि॑यम् ।
भवा॒ वाज॑स्य सङ्ग॒थे ॥

   (यथाशक्ति जपेत्)
सोमाय हृदयाय नमः ।
निशाकराय शिरसे स्वाहा ।
क्षीरोदार्णवसम्भवाय शिखायै वषट् ।
लक्ष्मीसहोदराय कवचाय हुम् ।
तारकेशाय नेत्रत्रयाय वौषट् ।
सुधामूर्तये अस्त्राय फट् ।
भूर्भुवःसुवरोमिति दिग्विमोकः ।।

अथ ध्यानम् ।।
गदाधरधरं देवं श्वेतवर्णं निशाकरम् ।
ध्यायेदमृतसम्भूतं सर्वकामफलप्रदम् ॥

लं पृथिव्यात्मने गन्धं समर्पयामि ।
हं आकाशात्मने पुष्पाणि समर्पयामि ।
यं वाय्वात्मने धूपमाघ्रापयामि ।
रं वह्न्यात्मने दीपं दर्शयामि ।
वं अमृतात्मने अमृतोपहारं निवेदयामि ।
सं सर्वोपचारान् समर्पयामि ॥

    ।। इति सोममन्त्रः ।।
=====================
SHARE

About astroclassess.blogspot.com

    Blogger Comment
    Facebook Comment

0 comments:

Post a Comment