अथ बुधः जप मन्त्र: ।। Budha Jap Mantra.

अथ बुधमहामन्त्र प्रारम्भः ।।


ॐ अस्य श्रीबुधमहामन्त्रस्य मधुच्छन्द ऋषिः । तृष्टुप्छन्दः ।
बुधो देवता । बुधप्रीत्यर्थे जपे विनियोगः ।
बुधाय अङ्गुष्ठाभ्यां नमः ।
सौम्याय तर्जनीभ्यां नमः ।
सिंहारूढाय मध्यमाभ्यां नमः ।
चतुर्बाहवे अनामिकाभ्यां नमः ।
गदाधराय कनिष्ठिकाभ्यां नमः ।
सोमपुत्राय करतलकरपृष्ठाभ्यां नमः ।
बुधाय हृदयाय नमः ।
सौम्याय शिरसे स्वाहा ।
सिंहारूढाय शिखायै वषट् ।
चतुर्बाहवे कवचाय हुम् ।
गदाधराय नेत्रत्रयाय वौषट् ।
सोमपुत्राय अस्त्राय फट् ।
भूर्भुवःसुवरोमिति दिग्बन्धः ।।

अथ ध्यानम् ।।
पीताम्बरः पीतवपुः किरीटी चतुर्भुजो दण्डधरश्च सौम्यः ।
चर्मासिधृत् सोमसुतः सदा मे सिंहाधिरूढो वरदो बुधः स्यात् ॥

लं पृथिव्यात्मने गन्धं समर्पयामि ।
हं आकाशात्मने पुष्पाणि समर्पयामि ।
यं वाय्वात्मने धूपमाघ्रापयामि ।
रं वह्न्यात्मने दीपं दर्शयामि ।
वं अमृतात्मने अमृतोपहारं निवेदयामि ।
सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥

अथ मूलमन्त्रः ।।
ॐ उद्बु॑द्ध्यस्वाग्ने॒ प्रति॑जागृही मिष्टापू॒र्ते
                स॒ (गुं) सृ॑जेथाम॒यं च॑ ।
अस्मिन्स्त्वधत्से अध्युत्तरस्मिन् विश्वे देवा 
                  यजमानश्च सीदत ॥

  (यथाशक्ति जपेत्)
बुधाय हृदयाय नमः ।
सौम्याय शिरसे स्वाहा ।
सिंहारूढाय शिखायै वषट् ।
चतुर्बाहवे कवचाय हुम् ।
गदाधराय नेत्रत्रयाय वौषट् ।
सोमपुत्राय अस्त्राय फट् ।
भूर्भुवःसुवरोमिति दिग्विमोकः ।।

अथ ध्यानम् ।।
पीताम्बरः पीतवपुः किरीटी चतुर्भुजो दण्डधरश्च सौम्यः ।
चर्मासिधृत् सोमसुतः सदा मे सिंहाधिरूढो वरदो बुधः स्यात् ॥

लं पृथिव्यात्मने गन्धं समर्पयामि ।
हं आकाशात्मने पुष्पाणि समर्पयामि ।
यं वाय्वात्मने धूपमाघ्रापयामि ।
रं वह्न्यात्मने दीपं दर्शयामि ।
वं अमृतात्मने अमृतोपहारं निवेदयामि ।
सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥

       ।। इति बुधमहामन्त्रः ।।
=======================
SHARE

About astroclassess.blogspot.com

    Blogger Comment
    Facebook Comment

0 comments:

Post a Comment